哪位能将“爱是永恒的力量”这句话翻译成梵文。不甚感激

青骨,你好我想要的答案,你怎么没有说?
2025-05-16 06:07:19
推荐回答(1个)
回答1:

महात्मना गान्धिना धर्मविषये आचारविषये च बहु लिखितम् । परं "सत्यस्य मम प्रयोगः" इति शीर्षकेण आत्मकथा श्रीमदभगवद्गीतायाश्च अनासक्तिनामकं भाष्यम् इति रचनाद्वयं महत्त्वपूर्णमस्ति । एषः महापुरूषः "राष्त्रपिता" इतिभिधानमपि प्राप्तवान् । १९४७ तमे वर्षे जनवरीमासस्य त्रिंशत्तम्यां तारिकायां एकस्य घातकस्य गुलिकया आहतो भूत्वा "हे राम" इत्युच्चारयन् सः स्वदेहम् अत्यजत् ।

त्रयो धूर्ताः

कस्मिंश्चिद् नगरे मित्रशर्मा नाम एकः ब्राहमणः अवसत् । सः एकदा एकम् अजं स्कन्धे कृत्वा गृहं प्रत्यगच्छत् । तदा त्रयो धूर्ताः मार्गे तं ब्राहमणम् अपश्यन् अचिन्तयन् च - "एतस्मात् ब्राहमणात् एषः अजः अस्माभिः येन केन उपायेन प्राप्तव्यः ।" अथ तेषु धूर्तेषु एकः धूर्तः वेषपरिवर्तनं कृत्वा तस्य ब्राहमणस्य सम्मुखे आगच्छत् अपृच्छत् च - "भो ब्राहमण ! त्वम् एतं कुक्कुरं किमर्थं वहसि ?" तस्य वचन् श्रुत्वा मित्रशर्मा अवदत् - "एषः कुक्कुरः न अस्ति । एषः तु अजःअस्ति ।" अथ किञ्चिद् दूरं गत्वा तं ब्राहमणं द्वितीयः धूर्तः अमिलत् अभणत् च - "भो ब्राहमण ! त्वं किमर्थम् एतम् अपवित्रं कुक्कुरं स्कन्धे कृत्वा नयसि ?" तदा सः ब्राहमणः क्रुद्धोऽभवत् अकथयत् च - "हे मुर्ख ! किं त्वं अन्धः असि यद् अजं कुक्कुरम् अवगच्छसि ?" अथ किञ्चिद् दूरं गत्वा तृतीयः धूर्तः तं ब्राहमणं अमिलत् तथैव च अवदत् । तस्य तादृशं वचनमाकर्ण्य मित्रशर्मा अजम् `अयं कुक्कुर' इति मत्वा भूमौ अक्षिपत् अगच्छत् च । त्रयो धूर्ताः तम् अनयन् अपचन् अभक्षयन् च ।

http://hi.baidu.com/%DC%BD%C8%D8%CB%AD%D7%ED

因为没人认识这些文字,你挑有缘的用之